Kali Kavach in Hindi (काली कवच)2021 complete lines.

Searching for Maa Kali Kavach in Hindi Lyrics? Here is it, hope you like it.

Kali Kavach in Hindi/Hindi Lyrics

काली कवच
नारद उवाच

कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् I

नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च सांप्रतम् II 1 II

नारायण उवाच

श्रुणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् I

गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् II २ II

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् I

दुर्वासा हि ददौ राज्ञे पुष्करे सुर्यपर्वणि II ३ II

दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा I

पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् II ४ II

बभूव सिद्धकवचोSप्ययोध्यामाजगाम सः I

कृत्स्रां हि पृथिवीं जिग्ये कवचस्य प्रसादतः II ५ II

नारद उवाच

श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा I

अधुना श्रोतुमिच्छामि कवचं ब्रुहि मे प्रभो II ६ II

नारायण उवाच

श्रुणु वक्ष्यामि विप्रेन्द्र कवचं परामाद्भुतम् I

नारायणेन यद् दत्तं कृपया शूलिने पुरा II ७ II

त्रिपुरस्य वधे घोरे शिवस्य विजयाय च I

तदेव शूलिना दत्तं पुरा दुर्वाससे मुने II ८ II

दुर्वाससा च यद् दत्तं सुचन्द्राय महात्मने I

अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् II ९ II

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् I

क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रींमिति लोचने II १० II

ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु I

क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु II ११ II

ह्रीं भद्रकालिके स्वाहा पातु मेsधरयुग्मकम् I

ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु II १२ II

ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु I

ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम II १३ II

ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदावतु I

ॐ क्रीं कालिकायै स्वाहा मम नाभिं सदावतु II १४ II

ॐ ह्रीं कालिकायै स्वाहा मम पृष्टं सदावतु I

रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदावतु II १५ II

ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु I

ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु II १६ II

प्राच्यां पातु महाकाली आग्नेय्यां रक्तदन्तिका I

दक्षिणे पातु चामुण्डा नैऋत्यां पातु कालिका II १७ II

श्यामा च वारुणे पातु वायव्यां पातु चण्डिका I

उत्तरे विकटास्या च ऐशान्यां साट्टहासिनि II १८ II

ऊर्ध्वं पातु लोलजिह्वा मायाद्या पात्वधः सदा I

जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा II १९ II

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् I

सर्वेषां कवचानां च सारभूतं परात्परम् II २० II

सप्तद्वीपेश्वरो राजा सुचन्द्रोSस्य प्रसादतः I

कवचस्य प्रसादेन मान्धाता पृथिवीपतिः II २१ II

प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह I

यतो हि योगिनां श्रेष्टः सौभरिः पिप्पलायनः II २२ II

यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् I

महादानानि सर्वाणि तपांसि च व्रतानि च I

निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् II २३ II

इदं कवचमज्ञात्वा भजेत् कालीं जगत्प्रसूम् I

शतलक्षप्रजप्तोSपि न मन्त्रः सिद्धिदायकः II २४ II

II इति श्रीब्रह्मवैवर्ते कालीकवचं संपूर्णम् II

Share it withyour family and friends if you like Maa Kali Kavach in Hindi.

Read: Hanuman Kavach in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *